Header Ads

Ek Mukhi Hanuman Kavach in Sanskrit - एक मुखी हनुमान कवच

Ek Mukhi Hanuman Kavach in Sanskrit - एक मुखी हनुमान कवच


Ek Mukhi Hanuman Kavach in Sanskrit 

एक मुखी हनुमान कवच


अथ श्री एकमुखि हनुमत्कवचं प्रारंभयते ।
 
मनोजवं मारुततुल्य वेगं, जितेंद्रियं बुधिमतां वरिष्ठं ।
वातात्मजं वानर्युथ्मुख्यं, श्रीराम्दूतं शरणं प्रप्धे ।।
 
अथ श्री हनुमते नम:
 
एकदा सुखमासीनं शंकरं लोकशंकरं ।
पप्रच्छ गीरिजाकांतं कर्पूधवलं शिवं ।।
 
पार्वत्युवाच
 
भगवन्देवदेवेश लोकनाथं जगद्-गुरो ।
शोकाकुलानां लोकानां केन रक्षा भवेद ध्रुवं ।।
संग्रामे संकटे घोरे भूतप्रेतादिके भये ।
दुखदावाग्नि संतप्त चेतसां दुखभागिनां ।।
 
 
ईश्वर उवाच
 
श्रणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ।।
कवचं कपिनाथस्य वायुपुत्रस्य धीमत: ।
गुह्यं ते संप्रवछ्यामि विशेषाच्छ्रिणु सुन्दरि ।।
 
ॐ अस्य श्रीहनुमत् कवच-स्त्रोत्र-मंत्रस्य श्रीरामचंद्र ऋषिः । अनुष्टुप्छंदः ।
श्रीमहावीरो हनुमान देवता । मारुतात्मज इति बीजं ।।
ॐ अंजनीसुनुरिति शक्ति: । ॐ ह्रैं ह्रां ह्रौं इति कवचं ।
स्वाहा इति कीलकं । लक्ष्मण प्राणदाता इति बीजं ।
मम् सकलकार्य सिध्दयर्थे जपे वीनियोग: ।।
 
अथन्यास
 
ॐ ह्रां अंगूष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।
ॐ ह्रूं मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: ।
ॐ ह्रौं कनिष्ठिभ्यां नम: । ॐ ह्र: करतल करप्रिष्ठाभ्यां नम: ।
ॐ अंनीसूनवे ह्र्दयाय नम: । ॐ रुदमूर्तये सिरसे स्वाहा ।
ॐ वायुसुतात्मने शिखायै वषट् । ॐ वज्रदेहाय कवचाय हुं ।
ॐ रामदूताय नेत्र-त्रयाय वौषट् । ॐ ब्र्ह्मास्त्र निवारणाय अस्त्राय फट् ।
 
ॐ राम-दूताय विद-महे कपि-राजाय धीमहि ।
तन्नो हनुमान प्रचोदयात् ॐ हुं फट् ।।
 
।। इति दिग्बन्धः ।।

 
ॐ ध्यायेद्-बाल दिवाकर-धुतिनिभं देवारिदर्पापहं
देवेन्द्र-प्रमुख-प़शस्त-यशसं देदीप्यमानं रुचा ।
सुग्रीवादि-समस्त-वानर-युतं सुव्यक्त-तत्वप्रियं
संरक्तारुण-लोचनं पवनजं पीतांबरालंकृतं ।।१।।
 
उधन्मार्तण्ड-कोटि-प्रकट-रुचियुतं चारु-वीरासनस्थं
मौंजी-यज्ञो-पवीता-रुण-रुचिर-शिखा-शोभितं कुंडलागम् ।
भक्ता-नामिष्ट-दं तं प्रणत्-मुनिजनं वेदनाद-प्रमोदं
ध्याये-देव विधेयं प्ल्वंग-कुल-पतिं गोष्पदी भूतवार्धिं ।।२।।
 
वज्रांगं पिंगकेशाढ्यं स्वर्णकुंडल-मंडितं ।
नियुध्द-कर्म-कुशलं पारावार-पराक्रमं ।।३।।
 
वामहस्ते महावृक्षं दशास्यकर-खंडनं ।
उध-दक्षिण-दौर्दण्डं हनुमंतं विचिंतयेत् ।।४।।
 
स्फटिकांभं स्वर्णकान्ति द्विभुजं च कृतांजलिं ।
कुंडलद्वय-संशौभि मुखांभोजं हरिं भजेत् ।।५।।
 
उधदादित्य संकाशं उदारभुजविक़मम् ।
कंदर्प-कोटिलावण्यं सर्वविधा-विशारदम् ।।६।।
 
श्रीरामहृदयानंदं भक्तकल्पमहीरूहम् ।
अभयं वरदं दोर्भ्यां कलये मारूतात्मजम् ।।७।।
 
अपराजित नमस्तेऽस्तु नमस्ते रामपूजित ।
प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ।।८।।
 
यो वारां निधि-मल्प-पल्वल-मिवोल्लंघ्य-प्रता-पान्वितो
वैदेही-घन-शोक-तापहरणो वैकुण्ठ-तत्वप्रियः ।
 
अक्षाघूर्जित-राक्षसेश्वर-महादर्पापहारी रणे
सोऽयं-वानर-पुंगवोऽवतु सदा युष्मान्-समीरात्मजः ।।९।।
 
वज्रांगं पिंगकेशं कनकमयल-सत्कुण्डला-क्रांतगंडं
नाना विधाधिनाथं करतल-विधृतं पूर्णकुंभं दृढं च ।
भक्ताभीष्टाधिकारं विदधति च सदा सर्वदा सुप्रसन्नं
त्रैलोक्यं-त्राणकारं सकलभुवनगम् रामदूतम् नमामि ।।१०।।
 
उधल्लांगूल-केशप्रलय-जलधरं भीममूर्तिं कपींद्रं
वंदे रामांघ्रि-पद्म-भ्रमरपरिवृतं तत्वसारं प्रसनम् ।
वज्रांगं वज्ररुपं कनकमयल-सत्कुण्डला-क्रांतगंडं
दंभोलिस्तंभ-सार-प्रहरण विकटं भूतरक्षोऽधिनाथम् ।।११।।
 
वामे करे वैरिभयं वहंतं शैलं च दक्षेनिजकण्ठलग्नम् ।
दधान-मासाद्ध सुवर्णवर्ण भजेज्ज्वलत्कुंडल-रामदूतम् ।।१२।।
 
पद्मरागमणि कुंडलत्विषा-पाटलीकृत-कपोलमण्डलम् ।
दिव्यगेह-कदली-वनांतरे भावयामि पवमान-नन्दनम् ।।१३।।
 
ईश्वर उवाच
 
इति वदति-विशेषद्राधवो राक्षसेंद्र प्रमुदितवरचितो रावणस्यानुजो हि ।
रघूवरदूतं पूज्यमास भूयः स्तुतिभिरकृतार्थ स्वं परं मन्यमानः ।।१४।।
 
वन्दे विघुद्वलय सुभगम् स्वर्णयज्ञोपवीतं
कर्णद्वंद्वे कनकरूचिरे-कुण्डले धारयन्तम् ।
 
उच्चैर्ह्रस्य दधुमणि किरणो श्रेणि संभावितांगम्
सत्कौपीनं कपिवरवृतं कामरूपं कपीन्द्रम् ।।१५।।
 
मनोजवं मारुत तुल्य वेगं, जितेंद्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं सततं स्मरामि ।।१६।।
 
ॐ नमो भगवते ह्रदाय नम: । 
ॐ आंजनेयाय शिरसे स्वाहा ।
ॐ रूद्रमूर्तये शिखायै वषट् । 
ॐ रामदूताय कवचाय हुम् ।
ॐ हनुमते नेत्रत्रयाय वौषट् । 
ॐ अग्निगर्भाय अस्त्राय फट् ।
 
ॐ नमो भगवते अंगुष्ठाभ्यां नम: । 
ॐ वायुसूनवे तर्जनीभ्यां नम: ।
ॐ रूद्रमूर्तये मध्यमाभ्यां नम: । 
ॐ वायुसूनवे अनामिकाभ्यां नम: ।
ॐ हनुमते कनिष्ठिकाभ्यां नम: । 
ॐ अग्निगर्भाय करतल करप्रिष्ठाभ्यां नम: ।
 
अथ मंत्र उच्यते
 
ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
 
ॐ ह्रीं ह्रौं ॐ नमो भगवते महाबल पराक्रमाय भूत प्रेत पिशाच शाकिनी डाकिनी यक्षिणी पूतनामारी महामारी भैरव यक्ष बेताल राक्षस ग्रह राक्षसादिकं क्षणेन हन हन भंजय भंजय मारय मारय सिक्ष्य सिक्ष्य महामाहेश्वर रूद्रावतार ह्रुं फट् स्वाहा ।
 
ॐ नमो भगवते हनुमादाख्याय रूद्राय सर्वदुष्टजनमुखस्तंभनं कुरू-कुरू ह्रां ह्रीं ह्रूं ठं-ठं-ठं फट् स्वाहा ।
 
ॐ नमो भगवते अंजनीगर्भसंभूताय रामलक्ष्मणानन्दकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीव साधकाय रणोच्च्टनाय कुमार ब्रह्मचारिणे गंभीर-शब्दोदयाय |
 
ॐ ह्रां ह्रीं ह्रूं सर्वदुष्ट निवारणाय स्वाहा ।
 
ॐ नमो हनुमते सर्वग्रहान्भूतभविष्य-दूर्तमानान्-दूरस्थान् समीपस्थान् सर्वकाल दुष्टदुर्बुद्धीन उच्चाट योच्चाटय परबलानि क्षोभय क्षोभय मम् सर्वकार्यं साधय साधय हनुमते |
 
ॐ ह्रां ह्रीं ह्रूं फट् देहि ।
 
ॐ शिवं सिद्धं ह्रां ह्रीं ह्रूं ह्रौं स्वाहा ।
 
ॐ नमो हनुमते परकृतयंत्र-मंत्र-पराऽहंकार-भूतप्रेत पिशाच परदृष्टि-सर्वविध्न-दुर्जनचेटक विधा सर्वग्रहान् निवारय निवारय वध वध पच पच दल दल किल किल सर्वकुयंत्राणि-दुष्टवाचं फट् स्वाहा ।
 
ॐ नमो हनुमते पाहि पाहि एहि एहि सर्वग्रह भूतानां शाकिनी-डाकिनीनां विषम् दुष्टानां सर्वविषयान् आकर्षय आकर्षय मर्दय मर्दय भेदय भेदय मृत्युमुत्पाटयोत्पाटय शोषय शोषय ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल भूतमंडलं प्रेतमंडलं पिशाचमंडलं निरासय निरासय भूतज्वर प्रेतज्वर चातुर्थिकज्वर विषंज्वर माहेश्वरज्वरान् छिंधि छिंधि भिंधि भिंधि अक्षिशूल वक्षःशूल शरोभ्यंतरशूल गुल्मशूल पित्तशूल ब्रह्र-राक्षसकुल परकुल नागकुल विषं नाशय नाशय निर्विषं कुरू कुरू फट् स्वाहा ।
 
ॐ ह्रीं सर्वदुष्ट ग्रहान् निवारय फट् स्वाहा ।।
 
ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय हन हन पापदृष्टिं षंढ़दृष्टिं हन हन हनुमदाज्ञया स्फुर स्फुर फट् स्वाहा ।।


श्रीराम उवाच

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
प्रतीच्यां पातु रक्षोघ्न उत्तरस्यामब्धिपारगः ॥ १॥

उदीच्यामूर्ध्वगः पातु केसरीप्रियनन्दनः ।
अधश्च विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ २॥

अवान्तरदिशः पातु सीताशोकविनाशनः ।
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ॥ ३॥

सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ।
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ॥ ४॥

नेत्रे छायाऽपहारी च पातु नः प्लवगेश्वरः ।
कपोलकर्णमूले तु पातु श्रीरामकिङ्करः ॥ ५॥

नासाग्रे अञ्जनासूनुर्वक्त्रं पातु हरीश्वरः ।
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ६॥

पातु दन्तान् फाल्गुनेष्टश्चिबुकं दैत्यप्राणहृत् ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ ७॥

भुजौ पातु महातेजाः करौ तु चरणायुधः ।
नखान्नखायुधः पातु कुक्षिं पातु कपीश्वरः ॥ ८॥

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥ ९॥

नाभिञ्च रामदूतस्तु कटिं पात्वनिलात्मजः ।
गुह्मं पातु महाप्राज्ञः सृक्किणी च शिवप्रियः ॥ १०॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घे पातु महाबाहुर्गुल्फौ पातु महाबलः ॥ ११॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
पादान्ते सर्वसत्वाढ्यः पातु पादाङ्गुलीस्तथा ॥ १२॥

सर्वाङ्गानि महावीरः पातु रोमाणि चात्मवान् ।
हनुमत्कवचं यस्तु पठेद्विद्वान् विचाक्षणः ॥ १३॥

स एव पुरूषश्रेष्ठो भक्तिं मुक्तिं च विन्दति ।
त्रिकालमेककालं वा पठेन्मासत्रयं सदा ॥ १४॥

सर्वान् रिपून् क्षणे जित्वा स पुमान् श्रियमाप्नुयात् ।
मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्यदि ॥ १५॥

क्षयाऽपस्मारकुष्ठादितापत्रयनिवारणम् ।
आर्किवारेऽश्वत्थमूले स्थित्वा पठतिः यः पुमान् ॥ १६॥

अचलां श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ १७॥

यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ।
विवाहे दिव्यकाले च द्यूते राजकुले रणे ॥ १८॥

भूतप्रेतमहादुर्गे रणे सागरसम्प्लवे ।
दशवारं पठेद्रात्रौ मिताहारी जितेन्द्रियः ॥ १९॥

विजयं लभते लोके मानवेषु नराधिपः ।
सिंहव्याघ्रभये चाग्नौ शरशस्त्रास्त्रयातने ॥ २०॥

श‍ृङ्खलाबन्धने चैव काराग्रहनियन्त्रणे ।
कायस्तम्भे वह्निदाहे गात्ररोगे च दारूणे ॥ २१॥

शोके महारणे चैव ब्रह्मग्रहविनाशने ।
सर्वदा तु पठेन्नित्यं जयमाप्नोत्यसंशयम् ॥ २२॥

भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।
त्रिगन्धेनाथवा मस्या लिखित्वा धारयेन्नरः ॥ २३॥

पञ्चसप्तत्रिलौहैर्वा गोपितं कवचं शुभम् ।
गले कट्यां बाहुमूले वा कण्ठे शिरसि धारितम् ॥ २४॥

सर्वान् कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ २५॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ २६॥

ॐ हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः ।
श्रीरामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ २७॥

उदधिक्रमणश्चैव सीताशोकविनाशनः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २८॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ २९॥

तस्य सर्वभयं नास्ति रणे च विजयी भवेत् ।
धनधान्यं भवेत्तस्य दुःखं नैव कदाचन ॥ ३०॥

ॐ ब्रह्माण्डपुराणान्तर्गते नारद अगस्त्य संवादे ।
श्रीरामचन्द्रकथितपञ्चमुखे एकमुखी हनुमत् कवचम् ॥

No comments

Powered by Blogger.